ॐ कारं बिंदुसंयुक्तं,नित्यं ध्यायंति योगिन:।
कामदं मोक्षदं चैव,ॐकाराय नमो नम:॥
नमंतिऋषयो देवा,नमन्त्यप्सरसां गणा:।
नरा नमन्तिदेवेशं,नकाराय नमो नम:॥
महादेवं महात्मानं,महाध्यानं परायणम्।
महापापहरं देवं,मकाराय नमो नम:॥
शिवं शांन्तं जगन्नाथं,लोकानुग्रहकारकम्।
शिवमेकपदं नित्यं,शिकाराय नमो नम:॥
वाहनं वृषभो यस्य,वासुकि: कण्ठभूषणम्।
वामे शक्तिधरं देवं,वकाराय नमो नम:॥
यत्र यत्र स्थितो,देव: सर्वव्यापी महेश्वर:।
यो गुरुः सर्वदेवानां,यकाराय नमो नम:॥
षडक्षरमिदं स्तोत्रं,य: पठेच्छिवसंनिधौ।
शिवलोकमवाप्नोति,शिवेन सह मोदते॥